________________
६४ समास :- (१) द्वितीयमुनिना - द्वितीयश्चासौ मुनिश्च इति द्वितीयमुनिः,
तेन द्वितीयमुनिना । (वि.पू.क.) । (२) ईर्याशुद्धिम् - ईर्यायाः शुद्धिः इति ईर्याशुद्धिः, तां
ईर्याशुद्धिम् । (ष.त.पु.) तुषारोन्यततों दृष्टवा, त्रसरेणुनिभानपि। वज्रों निववृते च द्राँग्भीतोऽप्कायविराधनात् ॥१४८॥ अन्वय :- त्रसरेणुनिभान् अपि तुषारान् पततः दृष्ट्वा अप्कायविरा
___ धनात् भीत: च वज्रः द्राग् निववृते । समास :- (१) त्रसरेणुनिभान्-(A) त्रसानां रेणवः इति त्रसरेणवः ।
(ष.त.पु.) (B) त्रसरेणुभिः निभाः इति त्रसरेणुनिभाः, तान्
त्रसरेणुनिभान् । (तृ.त.पु.) (२) अप्कायविराधनात्- (A) आपः काया यस्य सः
इति अप्कायः । (समा.ब.वी.) (B) अप्कायस्य विराधनम् इति अप्कायविराधनम्,
तस्मात् अप्कायविराधनात् । (ष.त.पु.) तुषारमात्रामप्यम्बुवृष्टिं देवी निरुध्ये ताम् । आह्वासत पुर्नवज्रम, वृष्टिनास्तीति भाषिणः॥१४९॥ अन्वय :- तुषारमात्राम् अपि ताम् अम्बुवृष्टिं निरुध्य वृष्टिः न अस्ति
___ इति भाषिणः देवाः पुनः वज्रम् आह्वासत । समास :- (१) तुषारमात्राम् - तुषारस्य मात्रा यस्याः सा इति
तुषारमात्रा, तां तुषारमात्राम् । (व्यधि.ब.वी.)