________________
६८
(३) दिवौकस :- दिवा ओकः येषां ते इति दिवौकसः ।
(समा.ब.व्री.)
(४) भिक्षार्थम् - भिक्षायाः अर्थम् इति भिक्षार्थम् । (ष. त.पु.)
(५) ह्रस्ववन्दनपूर्वकम् - (A) ह्रस्वं च तद् वन्दनं च इति ह्रस्ववन्दनम् । (वि.पू.क.)
(B) ह्रस्ववन्दनेन पूर्वकम् इति ह्रस्ववन्दनपूर्वकम् । (तृ. त.पु.)
निवृत्तमिव विज्ञाय वृष्टिमाचार्यपुङ्गवः । वज्रमादिर्दिशुर्भिक्षाऽऽनयने विनयोज्ज्वलम् ॥१४६॥ अन्वय :- आचार्यपुङ्गवाः वृष्टिं निवृत्ताम् इव विज्ञाय विनयोज्ज्वलं वज्रं भिक्षाऽऽनयने आदिदिशुः ।
समास :- (१) आचार्यपुङ्गवाः - आचार्याश्चामी पुङ्गवाश्च इति आचार्यपुङ्गवाः । (वि. उत्त.क.)
,
(२) भिक्षाऽऽनयने भिक्षायाः आनयनम् इति भिक्षाऽऽनयनम्, तस्मिन् भिक्षाऽऽनयने । (ष.त.पु.) (३) विनयोज्ज्वलम् विनयेन उज्ज्वलः इति विनयोज्ज्वलः, तं विनयोज्ज्वलम् । (तृ. त.पु.) वज्रोऽर्थावश्यि(श्य )कीं कृत्वा, द्वितीयमुनिना सह । विहर्तुं निरगादीयशुद्धिमध्वनिं चिन्तयन् ॥ १४७॥ अन्वय :- अथ वज्रः आवश्यि (श्य) कीं कृत्वा द्वितीयमुनिना सह अध्वनि ईर्याशुद्धि चिन्तयन् विहर्तुं निरगाद् ।
-
-