________________
૧૦
(२) सिंहगिरिगुरो :- (A) सिंहगिरिः नाम यस्य सः
इति सिंहगिरिनामा। (समा.ब.वी.) (B) सिंहगिरिनामा गुरुः इति सिंहगिरिगुरुः, तस्य
सिंहगिरिगुरोः । (म.प.लो.क.) सोऽथ द्वाविंशतिमपि, सहानः परीहान् । सुंदुस्तपं तपस्ते, स्वशरीरेऽपि निःस्प॒हः ॥१९॥ अन्वय :- अथ द्वाविंशतिम् अपि परीषहान् सहमानः स्वशरीरे अपि
निःस्पृहः सः सुदुस्तपं तपः तेपे । समास :- (१) द्वाविंशतिम् - द्वाभ्यामधिका विंशतिः इति
द्वाविंशतिः, तां द्वाविंशतिम् । (म.प.लो.क.) (२) सुदुस्तपम् - अतिशयेन दुःखेन तप्यते इति
सुदुस्तपम्, तद् सुदुस्तपम् । (उप.त.पु.) (३) स्वशरीरे - स्वस्य शरीरम् इति स्वशरीरम्, तस्मिन्
स्वशरीरे । (ष. त. पु.) (४) निःस्पृहः - निर्गता स्पृहा यस्मात् सः इति निःस्पृहः।
__ (प्रा. ब. वी.) सँ स्थैर्यार्जवविनयादिभिः शिष्यगुणैर्वृतः। श्रुतसारं गुरोः पार्थात्, पर्यः कूपोंदिवाँददें ॥२०॥ अन्वय :- स्थैर्यार्जवविनयादिभिः शिष्यगुणैः वृतः सः कूपात् पयः
इव गुरोः पार्थात् श्रुतसारम् आददे । स्थैर्यम् - स्थिरता, आर्जवम् - सरलता।