________________
अन्वय :- विशुद्धधीः धनगिरिः ताम् अन्तर्वत्नी ज्ञात्वा ऊचे एषः
गर्भः ते द्वितीयः भविता अहं प्रव्रजामि । अन्तर्वत्लीम् - गर्भवतीम् “अन्तर्वत्नी गुर्विणी स्याद् गर्भवत्युदरिण्यपि" ॥५३८॥ आपन्नसत्त्वा गुर्वीच,
इत्यभिधाने (५३९) समास :- (१) अन्तर्वत्नीम् - अन्तर्विद्यतेऽस्यामन्तर्वत्नी, ताम्
अन्तर्वत्नीम् । तदस्या० ७।२।१.. मतु प्रत्ययः
पतिवत्न्यन्त० २।४।५३.. ङी प्रत्ययः । (२) विशुद्धधी:- विशुद्धा धीः यस्य सः इति
विशुद्धधीः । (समा.ब.वी.) अमनीषित एवाभूत, सम्बन्धोऽपि त्वया सह । प्रव्रज्यैव प्रेयसी मेऽतः परं स्वस्ति ते पुनः॥१७॥ अन्वय :- त्वया सह अमनीषितः एव सम्बन्धः अभूत् अपि अतः . परं प्रव्रज्या एव मे प्रेयसी पुनः ते स्वस्ति । समास :- (१) अमनीषित:-न मनीषितः इति अमनीषितः । (नञ्त.पु.) इत्युक्त्वा तां धनगिरिरवक्रयकुटीमिव । हित्वा सिंहगिरिगुरो:, पार्श्वे गत्वाऽभवद्युतिः ॥१८॥ अन्वय :- इति उक्त्वा धनगिरिः अवक्रयकुटीम् इव तां हित्वा
सिंहगिरिगुरोः पार्श्वे गत्वा यतिः अभवत् । समास :- (१) अवक्रयकुटीम् - (A) अवक्रयेण गृहीता इति
अवक्रयगृहीता । (तृ.त.पु.) (B) अवक्रयगृहीता कुटी इति अवक्रयकुटी, ताम्
अवक्रयकुटीम् । (म.प.लो.क.)