________________
૧૧ समास :- (१) स्थैर्यार्जवविनयादिभि :- (A) स्थैर्यं च आर्जवं च
विनयश्च इति स्थैर्यार्जवविनयाः । (इत. द्व.) (B) स्थैर्यार्जवविनयाः आदौ येषां ते इति स्थैर्यार्जव
विनयादयः, तैः स्थैर्यार्जवविनयादिभिः ।
(व्यधि.ब.वी.) (२) शिष्यगुणैः- शिष्यस्य गुणाः इति शिष्यगुणाः, तैः
शिष्यगुणैः । (ष. त. पु.) (३) श्रुतसारम् - श्रुतस्य सारः इति श्रुतसारः, तं
श्रुतसारम् । (ष. त. पु.) नवमास्यां व्यतीतायाम्, सुनन्दाऽपि हि नन्दनम् । अजीजनज्जनानन्दम्, सरीवं सरोरुहम् ॥२१॥ अन्वय :- सुनन्दा अपि नवमास्यां व्यतीतायां हि सरसी सरोरुहम्
इव जनानन्दं नन्दनम् अजीजनत् । सरसी - कासारः जलाशयो वा "पद्मकासारस्तडागः
स्यात् कासारः सरसी सरः" ॥१०९४।। इत्यभिधाने । समास :- (१) नवमास्याम् - नवानां मासानां समाहारः इति
नवमासी, तस्यां नवमास्याम् । (द्विगु.कर्म.)
"द्विगो: समाहारात्" २।४।२९ इति ङी। (२) जनानन्दम् - जनान् आनन्दयतीति जनानन्दः, तं
जनानन्दम् । (उप. त. पु.) (३) सरोरुहम् .- सरसि रोहतीति सरोरुहः, तं
सरोरुहम् । (उप. त. पु.) मूलविभुजादयः ५।१।१४४ कप्रत्ययः ।