________________
૩૨ अन्वय :- सुरूपं शीलशालिनं वज्रं दृष्ट्वा मत्सूनुः इति वादिनी
सुनन्दा अपि शय्यातरेभ्यः अयाचिष्ट। समास :- (१) सुरूपम् – शोभनं रूपं यस्य सः इति सुरूपः, तं
सुरूपम् । (अव्य. ब. वी.) (२) शीलशालिनम् - शीलेन शालते इति शीलशाली,
तं शीलशालिनम् । (उप. त. पु.) (३) शय्यातरेभ्यः - शय्यातराः - पूर्ववत्, तेभ्यः
शय्यातरेभ्यः ।
(४) मत्सूनुः - मम सूनुः इति मत्सूनुः । (ष. त. पु.) जननीपुत्रसम्बन्धम्, तर्वामुयोर्भकस्य च । न विद्यः किन्त्वसौं न्यासों, गुरूणामिति तेऽवदन् ॥६६॥ अन्वय :- तव अमुष्य अर्भकस्य च जननीपुत्रसम्बन्धं न विद्मः
किन्तु तु असौ गुरूणां न्यासः इति ते अवदन् । समास :- (१) जननीपुत्रसम्बन्धम् - (A) जननी च पुत्रश्च इति
जननीपुत्रौ । (इत. द्वन्द्व) (B) जननीपुत्रयोः सम्बन्धः इति जननीपुत्र
___सम्बन्धः, तं जननीपुत्रसम्बन्धम् । (ष.त.पु.) इत्युक्त्वा नर्पियामासुस्तस्यै शय्यातराः सुतम् । ततश्चैक्षिष्ट सा वज्रम्", दूरस्थैव परस्ववत् ॥६७॥ अन्वय :- इति उक्त्वा शय्यातराः तस्यै सुतं न अर्पयामासुः ततः
च दूरस्था एव सा वज्रं परस्ववत् ऐक्षिष्ट । समास :- (१) शय्यातराः - पूर्ववत् ।
(२) दूरस्था - दूरे तिष्ठति इति दूरस्था। (उप.त.पु.)।