________________
१०० (२) शासनदेवताः - (A) शासने अधिष्ठिताः इति
शासनाधिष्ठिताः । (स.त.पु.) (B) शासनाधिष्ठिताः देवताः इति शासनदेवताः ।
(म.प.लो.क.) त्वन्मुंखाच्च प्रसरंतु, दशपूर्वी महर्षिषु ।
हे वत्स! कूपोदुदकमिवोपवनशाखिषु ॥२१५॥ अन्वय :- हे वत्स ! च उपवनशाखिषु कूपाद् उदकम् इव महर्षिषु
त्वन्मुखात् दशपूर्वी प्रसरतु । . समास :- (१) त्वन्मुखात् - तव मुखम् इति त्वन्मुखम्, तस्मात्
त्वन्मुखात् । (ष.त.पु.) (२) दशपूर्वी - पूर्ववत् । (३) महर्षिषु - महर्षयः पूर्ववत्, तेषु महर्षिषु । (४) उपवनशाखिषु - (A) उपमितं वनेन इति
उपवनम् । (प्रादि. त.पु.) (B) उपवनस्य शाखिनः इति उपवनशाखिनः, तेषु
उपवनशाखिषु । (ष.त.पु.) एवं सिंहगिरिर्वज्रमवन्ती गन्तुमादिशत् । वर्तेर्ते स्थविरः कल्पं, इत्यृर्षों द्वौं , तत्समम ॥२१६॥ अन्वय :- एवं सिंहगिरिः स्थविरः कल्पः इति द्वौ ऋषी वर्तेते, तत्सम
च, वज्रम् अवन्तीं गन्तुम् आदिशत् । समास :- (१) तत्समम् - ताभ्यां समम् इति तत्समम् । (तृ.त.पु.)