________________
૯૯
(B) भद्रगुप्तनामा गुरुः इति भद्रगुप्तगुरुः, तस्य भद्रगुप्तगुरोः । (म.प.लो.क.) अत्यल्पमेधसः सर्वे तवै सब्रह्मचारिणः । लम्भूष्णवमुत्रे, यत्रहमपिं कुण्ठर्धीः ॥ २१३॥
>
अन्वय :- यत्र अहम् अपि कुण्ठधीः अमुत्र तव अत्यल्पमेधसः सर्वे सब्रह्मचारिणः अलम्भूष्णवः हि न ।
(A) अतिशयेन अल्पा इति
समास :- (१) अत्यल्पमेधसः अत्यल्पा । (प्रादि कर्म.)
(B) अत्यल्पा मेधा येषां ते इति अत्यल्पमेधसः । (समा.ब.व्री.)
(२) सब्रह्मचारिण: समाने ब्रह्मणि (आगमे गुरुकुले
वा व्रतं) चरन्तीत्येवंशीलाः इति सब्रह्मचारिणः । 'सब्रह्मचारी' ३।२।१५० इन् । (उप.त.पु.) (३) कुण्ठधी:- कुण्ठा धीः यस्य सः इति कुण्ठधीः । (समा.ब.व्री.) अधीत्य दशैं पूर्वाणि, शीघ्रमेहिं मदाज्ञयां । वं सन्निहितः सन्तु सौम्यं ! शासनदेवर्ताः ॥२१४॥ अन्वय :- सौम्य ! मदाज्ञया दश पूर्वाणि अधीत्य शीघ्रम् एहि शासनदेवताः तव सन्निहिताः सन्तु ।
समास :- (१) मंदाज्ञया - मम आज्ञा इति मदाज्ञा, तया मदाज्ञया । (ष.त.पु.)
-