________________
૧૦૧
शेषमिवाज्ञामादार्य, मूर्ध्ना सिंहगिरेंगुरोः । वज्रोऽगाद्भेद्रगुप्तांहिपूतार्मुज्जयिनीं पुरी ॥२१७॥
अन्वय :- वज्रः सिंहगिरेः गुरोः आज्ञां शेषाम् इव मूर्ध्ना आदाय भद्रगुप्तांह्रिपूताम् उज्जयिनीं पुरीम् अगाद् ।
समास :- (१) भद्रगुप्तांहिपूताम् (A) भद्रगुप्तस्य अंड्री इति भद्रगुप्तांी । (ष. त.पु.)
-
(B) भद्रगुप्तांह्रिभ्यां पूता इति भद्रगुप्तांहिपूता, तां भद्रगुप्तांड्रिपूताम् । (तृ. त.पु.)
प्राप्ते चौज्जयिनी पुर्याम्, सुनन्दानन्दने मुनौ । निरैक्षिष्टं भद्रगुप्ताचार्य: स्वप्नं शुर्भे क्षणें ॥२१८॥
अन्वय :- सुनन्दानन्दने मुनौ च शुभे क्षणे उज्जयिनीपुर्यां प्राप्ते भद्रगुप्ताचार्यः स्वप्नं निरैक्षिष्ट ।
समास :- (१) उज्जयिनीपुर्याम् - पूर्ववत् ।
(२) सुनन्दानन्दने - सुनन्दायाः नन्दनः इति सुनन्दानन्दनः, तस्मिन् सुनन्दानन्दने । (ष.त.पु.)
(३) भद्रगुप्ताचार्यः - (A) भद्रगुप्तः नाम यस्य सः इति
भद्रगुप्तनामा । (समा.ब. व्री.)
(B) भद्रगुप्तनामा आचार्यः इति भद्रगुप्ताचार्य: । (म.प.लो.क.)
यर्दादार्य ममं कराते, क्षीरपूर्णं * पंतद्ग्रहम् । आगन्तुकोऽपिबत्कश्चिंत्, तृतिं चै परमममार्तं ॥ २१९ ॥