________________
૧૩૬
राजोऽपि व्याजहोरैवम्, विस्मयस्मेरमानसः । यथेष्टरूपनिर्माणलब्धिर्वज्रमुनिः खलु ॥२९१॥ अन्वय :- खलु विस्मयस्मेरमानसः राजा एवं व्याजहार वज्रमुनिः
यथेष्टरूपनिर्माणलब्धिः अपि (अस्ति) । समास :- (१) विस्मयस्मेरमानसः - (A) स्मेरं च तद् मानसं च
इति स्मेरमानसम् । (वि.पू.क.) (B) विस्मयेन स्मेरमानसं यस्य सः इति विस्मय
___ स्मेरमानसः (व्यधि.ब.वी.) (२) यथेष्टरूपनिर्माणलब्धिः - (A) इष्टम् अनतिक्रम्य इति
यथेष्टम् । (अव्य.भा.) (B) यथेष्टं च तद् रूपं च इति यथेष्टरूपम् ।
(वि.पू.क.) (C) यथेष्टरूपस्य निर्माणम् इति यथेष्टरूपनिर्माणम् ।
(ष.त.पु.) (D) यथेष्टरूपनिर्माणस्य लब्धिः यस्य सः इति
यथेष्टरूपनिर्माणलब्धिः । (व्यधि.ब.वी.) (३) वज्रमुनिः - पूर्ववत्। धनश्रेष्ठ्यपि तद्वज्रस्वामिरूपं निरूपयन् । स्वां पुत्रीं वर्णयामासे, साग्रहां तत्स्वयंवरे ॥२९२॥ अन्वय :- तद् वज्रस्वामिरूपं निरूपयन् धनश्रेष्ठी अपि तत्स्वयंवरे
साग्रहां स्वां पुत्रीं वर्णयामास। समास :- (१) धनश्रेष्ठी - (A) धनः नाम यस्य सः इति धननामा ।
(समा.ब.वी.)