________________
૧૩૫ अन्वय :- गीताभ्यासं विरचयन् इव जनः जितामरकुमारकं वज्ररूपं
दृष्ट्वा शिरांसि दुधुवे। समास :- (१) वज्ररूपम् - वज्रस्य रूपम् इति वज्ररूपम्, तद्
वज्ररूपम् । (ष.त.पु.) (२) जितामरकुमारकम् - (A) अमराः कुमाराः इव इति
अमरकुमाराः । (उप.उत्त.क.) (B) जिताः अमरकुमाराः येन तद् इति जितामर
कुमारकम्, तद् जितामरकुमारकम्। (समा.ब.वी.) (३) गीताभ्यासम्-गीतानाम् अभ्यासः इति गीताभ्यासः,
तं गीताभ्यासम् । (ष.त.पु.) ऊचें लोकों वज्रस्य, रूपं नैसर्गिक ह्यदः । गुणानामांकृतेश्चौधे, सदृशोऽभूत्समागमः ॥२८९॥ अन्वय :- लोकः च ऊचे हि अद्य वज्रस्य अदः नैसर्गिकं रूपं गुणानाम्
आकृतेः च सदृशः समागमः अभूत्। समास :- (१) नैसर्गिकम् - निसर्गाभवम् इति नैसर्गिकम्। (तद्धित)
(२) सदृशः-समानः इव दृश्यते इति सदृशः । (उप.त.पु.) मा भूवं प्रार्थनीयोऽहम, लोकस्येति हि शङ्कयाँ । सामान्य शस्तनं रूपम्, नूनं शक्त्यैषं निर्ममें ॥२९०॥ अन्वय :- हि अहं लोकस्य प्रार्थनीयः मा भूवम् इति शङ्ख्या एष
शक्त्या नूनं ह्यस्तनं सामान्यं रूपं निर्ममे । समास :- (१) ह्यस्तनम् - पूर्ववत् । (२) सामान्यम् -समानस्य भावः इति सामान्यम्, तद्
सामान्यम् । (तद्धित)... -