________________
૧૩૪ अन्वय :- द्वितीये च अह्नि अनेकलब्धिना वज्रेण कमलाविष्टरोपमं
सहस्रपत्रं कमलं विचक्रे। समास :- (१) अनेकलब्धिना - (A) न एकाः इति अनेकाः ।
(नञ्त.पु.) (B) अनेकाः लब्धयः यस्य सः इति अनेकलब्धिः,
तेन अनेकलब्धिना । (समा.ब.वी.) (२) सहस्रपत्रम् - सहस्रं पत्राणि यस्य तद् इति सहस्रपत्रम्,
तद् सहस्रपत्रम् । (संख्या.ब.वी.) (३) कमलाविष्टरोपमम् - (A) कमलायाः विष्टरम् इति
कमलाविष्टरम् । (ष.त.पु.) (B) कमलाविष्टरस्य उपमा यस्य तद् इति कमला
विष्टरोपमम्, तद् कमलाविष्टरोपमम्।
(व्यधि.ब.वी.) कृत्वा स्वाभाविक रूपमद्भुतं तस्य चोपरि । निषीदति स्मै भगवान्, वौं राजमरालवत् ॥२८७॥ अन्वय :- तस्य च उपरि राजमरालवत् भगवान् वज्रः स्वाभाविकं
अद्भुतं रूपं कृत्वा निषीदति स्म। समास :- (१) स्वाभाविकम्-स्वभावाद् आगतम् इति स्वाभाविकम्,
तद् स्वाभाविकम् । (तद्धित) (२) राजमरालवत् - (A) मरालानां राजा इति राजमरालः ।
(ष.त.पु.)
(B) राजमराल इव इति राजमरालवत् । (तद्धित) वज्ररूपं जनों दृष्ट्वा, जितामरकुमारकम् । शिरांसि दुधुवें गीताभ्यासं विरचर्यन्निव ॥२८८॥