________________
४
(२) प्रशमद्वाःस्थरक्षिते
(A) द्वारि तिष्ठति इति द्वाःस्थः। (उप.त. पु.) स्था-पा - स्ना-त्रः कः ५।१।१४२ क प्रत्ययः ।
(B) प्रशम एव द्वाःस्थः इति प्रशमद्वाःस्थः । (अव.पू.क.)
(C) प्रशमद्वाःस्थेन रक्षितम् इति प्रशमद्वाःस्थरक्षितम्, तस्मिन् प्रशमद्वाःस्थरक्षिते । (तृ. त. पु.) धर्मादेर्थो भवर्तीति, न्यायशास्त्रेष्वधीयते । सोऽर्थादपि व्यधद्धर्मम्, पात्रेभ्यो ऽर्थं नियोजयन् ॥ ६ ॥ अन्वय :- न्यायशास्त्रेषु धर्माद् अर्थः भवति इति अधीयते अपि पात्रेभ्यः अर्थं नियोजयन् सः अर्थाद् धर्मं व्यधात् । समास :- (१) न्यायशास्त्रेषु - (A) न्यायं सूचयन्ति इति न्यायसूचकानि । (उप.त.पु.)
(B) न्यायसूचकानि शास्त्राणि इति न्यायशास्त्राणि, तेषु न्यायशास्त्रेषु । (म.प.लो.क.)
ब्रह्मचर्यपरीणामम्, स्वर्गमोक्षफलं विदन्ं । इयेषं कन्यां द्वोढुम्, सोऽर्हद्धर्मपरायणः ॥ ७ ॥ अन्वय :- स्वर्गमोक्षफलं ब्रह्मचर्यपरीणामं विदन् अर्हद्धर्मपरायण: स: कन्याम् उद्वोढुं न इयेष ।
परायणः तत्परः, “अथ तत्परः" ॥ ३८४ ॥ आसक्तः प्रवणः प्रह्वः, प्रसितश्च परायणः । इत्यभिधाने (३८५)
-
समास :- (१) ब्रह्मचर्यपरीणामम् – (A) ब्रह्मणि चरतीति ब्रह्मचरः । (उप.त.पु.) चरेष्टः ५।१।१३८ ट प्रत्ययः ।