________________
૮૩
आचार्यश्चिन्तयामासुर्महात्मा बालकोऽप्यसौ । श्रुतसागरपारीणों, रक्ष्योऽवज्ञास्पदीभवन् ॥ १७९॥
अन्वय :- आचार्याः चिन्तयामासुः श्रुतसागरपारीणः असौ बालक: अपि महात्मा अवज्ञास्पदीभवन् रक्ष्यः ।
समास :- (१) महात्मा - पूर्ववत् ।
(२) श्रुतसागरपारीण: - (A) श्रुतमेव सागरः इति श्रुतसागरः । (अव.पू.क.)
(B) पारं गच्छति इति पारीण: । (तद्धित)
(C) श्रुतसागरस्य पारीणः इति श्रुतसागरपारीणः । (ष. त.पु.)
(३) अवज्ञास्पदीभवन् – (A) अवज्ञाया: आस्पदम् इति
-
अवज्ञास्पदम् । (ष. त.पु.)
(B) न अवज्ञास्पदम् इति अनवज्ञास्पदम् । (नञ्.त.पु.)
(C) अनवज्ञास्पदम् अवज्ञास्पदं भवन् इति अवज्ञास्पदीभवन् । ( गति . त . पु.)
अजानन्तोऽस्य माहात्म्यम्, बालस्यांप्येन्यसाधर्वः । कुर्वर्त्तिनं यथावज्ञाम् प्रयतिष्यामहें तथ ॥१८०॥
अन्वय :- अस्य बालस्य माहात्म्यम् अजानन्तः अपि अन्यसाधवः यथा अवज्ञां न कुर्वन्ति तथा प्रयतिष्यामहे । समास :- (१) अजानन्तः न जानन्तः इति अजानन्तः ।
(नञ्.त.पु.)
-