________________
८४ (२) माहात्म्यम् - महात्मा-पूर्ववत्, महात्मनः भावः इति
माहात्म्यम्, तद् माहात्म्यम् । (तद्धित) (३) अन्यसाधवः - अन्ये च ते साधवश्च इति
__ अन्यसाधवः । (वि.पू.क.) इत्याचार्या विभावर्याम, शिष्येभ्योऽकथयन्निति । यास्यामों ग्रामममुकम्, द्वित्राहं तत्रे न: स्थितिः ॥१८१॥ अन्वय :- इति अमुकं ग्रामं यास्यामः तत्र नः द्वित्राहं स्थितिः इति
आचार्याः विभावर्यां शिष्येभ्यः अकथयन् । समास :- (१) द्वित्राहम् - (A) द्वे वा त्रीणि वा इति द्वित्राणि ।
(संख्या .ब.वी.) (B) द्वित्राणाम् अह्नां समाहारः इति द्वित्राहम्, तद्
द्वित्राहम् । (द्विगु.क.) व्यजिज्ञप॑न् गुरुं योगप्रतिपन्नाचे साधवैः । भगवन्! वाचनाचार्यस्तत्कोऽस्माकभविष्यति ?॥१८२॥ अन्वय :- योगप्रतिपन्नाः च साधवः गुरुं व्यजिज्ञपन् भगवन् ! तत्
अस्माकं वाचनाचार्यः कः भविष्यति ? समास :- (१) योगप्रतिपन्ना:-योगं प्रतिपन्नाः इति योगप्रतिपन्नाः ।
(द्वि.त.पु.) (२) वाचनाचार्य:- (A) वाचनां दत्ते इति
वाचनादायकः । (उप.त.पु.) (B) वाचनादायकः आचार्यः इति वाचनाचार्यः ।
(म.प.लो.क.)