________________
૭૫ अन्वय :- खलु उपयोगविदुरः सः वज्रः तदावासे गत्वा पूर्ववत्
च देवपिण्डं ज्ञात्वा हि न जग्राह । समास :- (१) तदावासे - पूर्ववत् ।
(२) देवपिण्डम् - पूर्ववत् । (३) पूर्ववत् - पूर्वम् इव इति पूर्ववत् । (तद्धित) (४) उपयोगविदुरः - उपयोगे विदुरः इति उपयोगविदुरः ।
__ (स.त.पु.) वज्रार्य पूर्वसुहृदे, विद्यामाकाशगामिनीम् । प्रदर्दूस्तोषभार्जस्तै , स्वं स्वं स्थानमथों ययुः ॥१६०॥ अन्वय :- अथो तोषभाजः ते पूर्वसुहृदे वज्राय आकाशगामिनी
विद्यां प्रददुः स्वं स्वं स्थानं ययुः । समास :- (१) पूर्वसुहृदे - पूर्वस्य (जन्मनः) सुहृद् इति पूर्वसुहृद्,
तस्मै पूर्वसुहृदे । (ष.त.पु.) (२) आकाशगामिनीम् - आकाशे गमयति इत्येवंशीला
इति आकाशगामिनी, ताम् आकाशगामिनीम् ।
(उप.त.पु.) (३) तोषभाजः - तोषं भजन्ते इति तोषभाजः ।
(उप.त.पु.) भजो विण् ५।१।१४६ विण् प्रत्ययः । ततों विहरतों गच्छमध्ये वज्रस्य चाभवत् । पदानुसारिलब्ध्यात्ता, सुस्थिरै कादायपिं ॥१६१॥ अन्वय :- ततः च गच्छमध्ये विहरतः वज्रस्य पदानुसारिलब्ध्या
आत्ता एकादशाङ्गी अपि सुस्थिरा अभवत् ।