________________
४९ विक्रीतेलि दत्तेषु, स्वामित्वमपगच्छति । मां याचिष्ठाः सुतं दत्त्वाँ, त्वयैष परसात्कृतः ॥१०४॥ अन्वय :- विक्रीतेषु इव दत्तेषु स्वामित्वम् अपगच्छति सुतं दत्त्वा मा
याचिष्ठाः त्वया एष परसात्कृतः । समास :- (१) परसात्कृतः - परस्मिन् अधीनः कृतः इति
परसात्कृतः । तत्राधीने ७५२।१३२ सात् प्रत्ययः ।
(तद्धित) पक्षयोरुभयोरेवमुच्चैर्विवदमानयोः । लोकोऽवादींदमुंवादम्, राजा निर्धारयिष्यति ॥१०५॥ अन्वय :- एवम् उच्चैः विवदमानयोः उभयोः पक्षयोः लोकः
____अवादीत् अमुं वादं राजा निर्धारयिष्यति । ततः सुनन्दा लोकेन, सहिता नृपपर्षदि । जगाम सङ्घसहिताः, श्रमणां अर्पि तें ययुः ॥१०६॥ अन्वय :- ततः लोकेन सहिता सुनन्दा नृपपर्षदि जगाम सङ्घ
सहिताः ते श्रमणाः अपि ययुः । समास :- (१) नृपपर्षदि - नृपस्य पर्षद् इति नृपपर्षद, तस्यां
नृपपर्षदि । (ष.त.पु.) (२) सङ्घसहिताः - सङ्घन सहिताः इति सङ्घसहिताः ।
(तृ.त.पु.) राज्ञो न्यषीदद्वामेन, सुनन्दा दक्षिणेन तु । श्रीमान्सङ्घः समस्तोऽपिं, यथास्थानमथापरे ॥१०७॥ अन्वय :- अथ सुनन्दा राज्ञः वामेन दक्षिणेन तु श्रीमान् समस्तः
अपि सङ्घः अपरे यथास्थानं न्यषीदत् ।