________________
૫૦
समास :- (१) श्रीमान् - श्रियः सन्ति यस्य श्रीमान् । (तद्धित)
(२) यथास्थानम् - स्थानस्य योग्यम् इति यथास्थानम् ।
(अव्य. भा.) परिभाव्य द्वयोर्भाषांमुत्तरं चावदन्नृपः । येनाहूतः समायाति, बालस्तस्यै भर्वत्वसौं ॥१०८॥ अन्वय :- नृपः द्वयोः भाषां परिभाव्य उत्तरं च अवदत् येन आहूतः
____बालः समायाति तस्य असौ भवतु । तं निर्णयममंसाताम् , तौ तु पक्षावुभावपि । इति चोंचतुरौंदौक, सूनुमाह्वार्तुमर्हति ॥१०९॥ अन्वय :- तौ उभौ अपि पक्षौ तं निर्णयम् अमंसातां तु इति च
ऊचतुः आदौ कः सूनुम् आह्वातुम् अर्हति । स्त्रीगृह्याः प्रोचिरें पौरां, वतिनामेष बालकः । चिरसङ्घटितप्रेमा, तद्वचों नोतिलङ्घतें ॥११०॥ अन्वय :- स्त्रीगृह्याः पौराः प्रोचिरे वतिनां चिरसङ्घटितप्रेमा एषः
बालकः तद्वचः न अतिलङ्घते। समास :- (१) स्त्रीगृह्याः-स्त्रीभिः गृह्याः इति स्त्रीगृह्याः। (तृ.त.पु.)
(२) चिरसंङ्घटितप्रेमा - (A) चिरेण संघटितम् इति
चिरसङ्घटितम् । (प्रादि.क.) (B) चिरसङ्घटितं प्रेम यस्य सः इति
चिरसंघटितप्रेमा । (समा. ब. वी.) (३) तद्वचः-तेषां वचः इति तद्वचः, तद् तद्वचः । (ष.त.पु.)