________________
मातैवाह्वयतामादावियं दुष्करकारिणी' । नारीति चानुकम्प्याऽपि,भवत्येतद्धिनान्या ॥१११॥ अन्वय :- माता च दुष्करकारिणी इति इयम् एव आदौ आह्वयताम्
नारी अनुकम्प्या एतद् अपि हि अन्यथा न भवति । समास :- (१) दुष्करकारिणी - (A) दुःखेन क्रियते इति दुष्करम् ।
_ (उप.त.पु.)
(B) दुष्करं करोति इति दुष्करकारिणी । (उप. त. पु.) ततः सुनन्दा बहुशो', बालक्रीडनकानि च । विविधानि च भक्ष्याणि, दर्शयन्त्येवमभ्यीत् ॥११२॥ अन्वय :- ततः च बहुशः बालक्रीडनकानि विविधानि च भक्ष्याणि
दर्शयन्ती सुनन्दा एवम् अभ्यधात् । समास :- (१) बालक्रीडनकानि - (A) बालस्य योग्यानि इति
बालयोग्यानि । (ष.त.पु.) (B) बालयोग्यानि क्रीडनकानि इति बालक्रीडन
___ कानि तानि बालक्रीडनकानि। (म.प.लो.क.) हस्तिनोऽमी अमी अश्वा:, पत्तयोऽमी अमी रथाः । तवं क्रीडार्थमाँनीतास्तद् गृहाणैहि दारक ! ॥११३॥ अन्वय :- अमी हस्तिनः अमी अश्वाः अमी पत्तयः अमी रथाः
तव क्रीडार्थम् आनीताः दारक ! एहि तद् गृहाण । समास :- (१) क्रीडार्थम्-क्रीडायाः अर्थम् इति क्रीडा न.पू.) ★ अदोमुमी १।२।३५ सूत्रेणाऽत्राऽसन्धिः - A HAI HA