________________
પર
मोदको मण्डको द्राक्षाः, शर्करांश्चान्यदप्यदः । यदिच्छसि तदस्त्येव, गृह्यतामेहि दारके ! ॥११४॥ अन्वय :- मोदकाः मण्डकाः द्राक्षाः शर्कराः च अन्यद् अपि अदः
यद् इच्छसि तद् अस्ति एव दारक ! एहि गृह्यताम् । तर्वायुष्मन् ! कृर्षीयोहम्, सर्वाङ्गमवतारणे । चिरं जीवं चिरं नन्द, सुनन्दीमाशु मोदय ॥११५॥ अन्वय :- आयुष्मन् ! अहं तव अवतारणे सर्वाङ्ग कृषीय चिरं
जीव चिरं नन्द सुनन्दाम् आशु मोदय । समास :- (१) सर्वाङ्गम् - सर्वं च तद् अङ्गं च इति सर्वाङ्गम्,
तद् सर्वाङ्गम् । (वि.पू.क.) मम देवों मम पुत्रों , ममात्माँ मम जीवितम् । त्वमैासीति मां दीनाम्, परिष्वङ्गेण जीवयं ॥११६॥ अन्वय :- त्वम् एव मम देवः मम पुत्रः मम आत्मा मम जीवितम्
असि इति दीनां मां परिष्वङ्गेण जीवय । विलक्षा मा कृथा वसं !, मां लोकस्यास्यं पश्यतः । हृदयं मेंऽन्यथा भावि, पक्ववालुङ्कवद् द्विर्धा ॥१७॥ अन्वय :- वत्स ! अस्य लोकस्य पश्यतः मां विलक्षां मा कृथाः
अन्यथा मे हृदयं पक्ववालुङ्कवद् द्विधा भावि । समास :- (१) पक्ववालुङ्कवद् - (A) पक्वं च तद् वालुङ्कं च
इति पक्ववालुङ्कम् । (वि.पू.क.) (B) पक्ववालुङ्कम् इव इति पक्ववालुङ्कवद् ।
(तद्धित)