________________
પ૩ एहि हंसगते! वत्स!, मैमोत्सङ्ग परिष्कुरु । कुक्षिवासावक्रयों में, न लभ्यः किमियानपि ? ॥१८॥ अन्वय :- हंसगते ! वत्स ! एहि मम उत्सङ्गं परिष्कुरु किम् इयान्
___अपि मे कुक्षिवासावक्रयः न लभ्यः ? । समास :- (१) हंसगते ! - हंसस्य गतिः इव गतिः यस्य सः इति
हंसगतिः, तत्संबोधने हंसगते ! । (उप.ब.वी.) (२) कुक्षिवासावक्रयः - (A) कुक्षौ वासः इति
कुक्षिवासः । (स.त.पु.) (B) कुक्षिवासस्य अवक्रयः इति कुक्षिवासावक्रयः ।
(ष.त.पु.) एवं क्रीडनकैर्भक्ष्यप्रकारैश्चाटुकैरपि । सौनन्देयः सुनन्दायाँ, नाभ्यगच्छन्मनांगपिं ॥११९॥ अन्वय :- एवं क्रीडनकैः चाटुकैः भक्ष्यप्रकारैः अपि सौनन्देयः
मनाग् अपि सुनन्दायाः न अभ्यगच्छत् । समास :- (१) भक्ष्यप्रकारैः - भक्ष्याणां प्रकाराः इति भक्ष्यप्रकाराः,
तैः भक्ष्यप्रकारैः । (ष.त.पु.) (२) सौनन्देयः - सुनन्दायाः अपत्यम् इति सौनन्देयः ।
__ याप्त्यूङः ६।१७०... एयण् (तद्धित) नं मातुरुपकाराणाम्',कोऽपि स्यादनृणः पुमान् । एवं विदन्नपि सुर्वज एवमचिन्तयत् ॥१२०॥ अन्वय :- मातुः उपकाराणां कः अपि पुमान् अनृणः न स्याद् एवं
विदन् अपि सुधीः वज्रः एवम् अचिन्तयत् ।