________________
४८
(३) धनगिर्याद्याः - धनगिरिः आद्यः येषु ते इति
__ धनगिर्याद्याः । (समा. ब. व्री.) आयास्यति धनगिरिग्रहीष्यामि स्वात्मजम् । सुनन्दैवं चिन्तयन्ती, तेष्वायातेवमोदत ॥१०१॥ अन्वय :- धनगिरिः आयास्यति स्वम् आत्मजं ग्रहीष्यामि एवं
चिन्तयन्ती सुनन्दा तेषु आयातेषु अमोदत । समास :- (१) आत्मजम् - आत्मनः जातः इति आत्मजः, तम्
___ आत्मजम् । (उप. त. पु.) सुनन्दाऽपि महर्षिभ्यः, स्वनन्दनमयाचत । ते पुनर्पियामासुः, प्रत्यभाषन्त चैदृशम् ॥१०२॥ अन्वय :- सुनन्दा अपि महर्षिभ्यः स्वनन्दनम् अयाचत ते पुनः न
__ अर्पयामासुः ईदृशं च प्रत्यभाषन्त । समास :- (१) महर्षिभ्यः - महान्तश्चामी ऋषयश्च इति महर्षयः,
तेभ्यः महर्षिभ्यः । (वि. पू. क.) (२) स्वनन्दनम् - स्वस्य नन्दनः इति स्वनन्दनः, तं
स्वनन्दनम् । (ष. त. पु.) अयाचितस्त्वया दत्तों, मुग्धेऽस्मभ्यमयं शिशुः । वान्तानमिवं को दत्तं, पुनरादातुमिच्छति ॥१०३॥ अन्वय :- मुग्धे ! त्वया अस्मभ्यम् अयाचितः अयं शिशुः दत्तः
वान्तानम् इव दत्तं पुनः आदातुं कः इच्छति । समास :- (१) अयाचितः-न याचितः इति अयाचितः । (नञ्.त.पु.)
(२) वान्तान्नम् - वान्तं च तद् अन्नं च इति वान्तान्नम्, तद्
वान्तान्नम्। (वि. पू. क.)