________________
93
ईत्यनादाय तर्द्धिक्षाम्, वज्रस्वामीं न्यवर्तते । प्रत्यक्षीभूतैश्चाथ, जगदें विस्मितैः सुरैः ॥१५५॥ अन्वय :- इति तद्भिक्षाम् अनादाय वज्रस्वामी न्यवर्तत अथ च विस्मितैः तैः सुरैः प्रत्यक्षीभूय जगदे ।
समास :- (१) अनादाय - न आदाय इति अनादाय । (नञ्.त. पु.) (२) तद्भिक्षाम् - तेषां भिक्षा इति तद्भिक्षा, तां तद्भिक्षाम् । (ष. त.पु.)
(३) वज्रस्वामी - पूर्ववत् ।
-
(४) प्रत्यक्षीभूय – (A) न प्रत्यक्षम् इति अप्रत्यक्षम् । (नञ्.त.पु.) (B) अप्रत्यक्षं प्रत्यक्षं भूत्वा इति प्रत्यक्षीभूय । (गति.त. पु.)
वयं हिं जृम्भको देवाः, प्राग्जन्मसुहृदैस्तवं । त्वां द्रष्टुमगमींमेर्ह, त्वद्यापिं' र्हि नः सुहृत् ॥१५६॥ अन्वय :- हि वयं तव प्राग्जन्मसुहृदः जृम्भकाः देवाः त्वां द्रष्टुम् इह आगमाम हि अद्यापि त्वं नः सुहृत् (असि) ।
समास :- (१) प्राग्जन्मसुहृदः - पूर्ववत् ।
अर्थ वैक्रियलब्ध्याख्याम्, विद्यां तोषभृतोऽमराः । निष्क्रयं क्लृप्तमायाय', इव वज्रार्यं ते ददुः ॥१५७॥ :- अथ तोषभृतः ते अमराः क्लृप्तमायायाः निष्क्रयम् इव वैक्रियलब्ध्याख्यां विद्यां वज्राय ददुः ।
अन्वय :
निष्क्रयम्-प्रत्युपकारम् । "बदलो" इति भाषायाम् ।