________________
૧૮
तयोश्च पृच्छतो रेवम्', शकुन शुभसूचकम् । दृष्ट्वा सिंहगिरिगुरुरूंचेनूचानपुङ्गवः ॥३५॥ अन्वय :- एवं च तयोः पृच्छतोः शुभसूचकं शकुनं दृष्ट्वा अनूचा
नपुङ्गवः सिंहगिरिगुरुः ऊचे। अनूचानपुङ्गवः -गणिश्रेष्ठः “अनूचानः प्रवचने साङ्गे
ऽधीती गणिश्च सः" । इत्यभिधाने । (७८) समास :- (१) शुभसूचकम् - शुभं सूचयति इति शुभसूचकम् ।
(उप. त. पु.) (२) सिंहगिरिगुरुः - पूर्ववत् । (३) अनूचानपुङ्गवः - अनूचानेषु पुङ्गवः इति
अनूचानपुङ्गवः । (स.त.पु.) महाल्लाभोऽद्य वां भावी, लभेथे" यावां मुंनी! । सँचित्तं वाऽप्यचित्तं वा, तदादेयं मदाज्ञया ॥३६॥ अन्वय :- मुनी ! वाम् अद्य महान् लाभ: भावी युवां सचित्तं वा
अचित्तं वा यद् अपि लभेथे तद् मदाज्ञया आदेयम् ।
वाम् – युवयोः । समास :- (१) सचित्तम् - चित्तेन सह वर्तते यद् तद् इति
सचित्तम् । (सह. ब. वी.) (२) अचित्तम् - नास्ति चित्तं यस्य तद् इति अचित्तम् ।
(नञ्. ब. वी.) (३) मदाज्ञया - मम आज्ञा इति मदाज्ञा, तया मदाज्ञया ।
(ष.त.पु.)