SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ૧૭ विनेयैः - शिष्यैः "शिष्यो विनेयोऽन्तेवासी" । इत्यभिधाने (७९) समास :- (१) धनगिर्यार्यशमितादिभिः - (A) धनगिरिश्च आर्यशमितश्च इति धनगिर्यार्यशमितौ। (इ.द्व.) (B) धनगिर्यार्यशमितौ आदौ येषां ते इति धन गिर्यार्यशमितादयः, तैः धनगिर्यार्यशमिता दिभिः । (व्यधि. ब. वी.) वसत्यां तस्थिवांसंच, नत्वा सिंहगिरि गुरुम् । धनगिर्यार्यशमितावन्वजिज्ञपतामिति ॥३३॥ अन्वय :- वसत्यां च तस्थिवांसं सिंहगिरिं गुरुं नत्वा धनगिर्यार्य शमितौ इति अन्वजिज्ञपताम् । वसतिः - स्थानकः "वसतिः स्यादवस्थाने निशायां सदनेऽपि च" ॥३/२८३।। इत्यनेकार्थः । समास :- धनगिर्यार्यशमितौ - पूर्ववत् ।। स्वजनाः सन्ति नावस्मिन्भगवन् ! सन्निवेशने । यौष्माकैण नियोगेन, तान्विवन्दयिषावहे ॥३४॥ अन्वय :- भगवन् ! अस्मिन् सन्निवेशने नौ स्वजनाः सन्ति यौष्माकेण नियोगेन तान् विवन्दयिषावहे । नौ-आवयोः। नियोग:-आदेशः । "आज्ञा शिष्टिनिरानिभ्यो देशो नियोगशासने" ॥२७७॥ इत्यभिधाने। यौष्माकेण-युष्माकम् अयं यौष्माकः, तेन यौष्माकेण, युष्मदस्मदोऽजीनञौ० ६।३।६७.. अञ् । (तद्धित)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy