________________
...
उ०
(३) सुधी:- सुष्टुदधाति/ध्यायति इति सुधीः । (उप.त.पु.) (४) जातिस्मरणसञ्जातविवेकः - (A) जातिस्मरणम् -
पूर्ववत् । (B) जातिस्मरणेन सञ्जातः इति जातिस्मरण
सञ्जातः । (तृ.त.पु.) (C) जातिस्मरणसञ्जातः विवेकः यस्य सः इति
जातिस्मरणसञ्जातविवेकः । (समा.ब.वी.) (५) कल्पवित् - कल्पं वेत्ति इति कल्पवित् ।
(उप.त.पु.)... क्विप् प्रत्ययः । चिकीर्षति स्म बालोऽपि, निहारादि यदाच सः । चक्रे तदा सदा संज्ञाम्, सुव्यक्तां बालधारिषु ॥६२॥ अन्वय :- यदा अपि च सः बालः निहारादि चिकीर्षति स्म तदा
सदा बालधारिषु सुव्यक्तां संज्ञां चक्रे । समास :- (१) निहारादि - निहारः आदौ यस्मिन् तद् इति
निहारादि, तद् निहारादि । (व्यधि. ब. वी.) (२) सुव्यक्ताम् – शोभना व्यक्ता इति सुव्यक्ता, तां
सुव्यक्ताम् । (सु. पू. क.) (३) बालधारिषु - बालं धारयन्ति इति बालधारिणः,
___तेषु बालधारिषु । (उप. त. पु.) शय्यातरकुमाराणाम्, सर्वेषां युग्मभूरिव । वज्रोऽभवत्प्रीतिगुणम्, समानं तेषु दर्शयन् ॥६३॥ अन्वय :- सर्वेषां शय्यातरकुमाराणां युग्मभूः इव तेषु समानं
प्रीतिगुणं दर्शयन् वज्रः अभवत् ।