________________
૨૭
अन्वय :- अम्बुजात् अम्बुजं हंसः इव सौभाग्यनिधानभूः सः
शय्यातरपुरन्ध्रीणाम् अङ्काद् अङ्कं सञ्चचार । समास :- (१) शय्यातरपुरन्ध्रीणाम् – (A) शय्यातरा:-पूर्ववत् ।
(B) शय्यातराणां पुरन्ध्रयः इति शय्यातरपुरन्ध्रयः,
तासां शय्यातरपुरन्ध्रीणाम् । (ष.त.पु.) (२) सौभाग्यनिधानभूः - (A) शोभनं भगम् इति
सुभगम् । (सु.पू.क.) (B) सुभगस्य भावः सौभाग्यम् । (तद्धित) (C) सौभाग्यस्य निधानम् इति सौभाग्यनिधानम् ।
(ष.त.पु.) (D) सौभाग्यनिधानस्य भूः इति सौभाग्यनिधानभूः ।
(ष.त.पु.) (३) अम्बुजम् – अम्बुनि जातम् इति अम्बुजम्, तद्
अम्बुजम् । (उप.त.पु.) (४) अम्बुजात् - अम्बुजम्-पूर्ववत्, तस्मात् अम्बुजात् ।
(उप.त.पु.) उल्लापयन्त्यस्तं बालम्', मन्मनोल्लापपूर्वकम् । शय्यातरकुटुम्बिन्यो, हर्षवातूलतां ययुः ॥५८॥ अन्वय :- तं बालं मन्मनोल्लापपूर्वकम् उल्लापयन्त्यः शय्यातर
कुटुम्बिन्यः हर्षवातूलतां ययुः। समास :- (१) मन्मनोल्लापपूर्वकम् - (A) मन्मनः एव उल्लापः
इति मन्मनोल्लापः । (अक. पू. क.)