________________
अन्वय :- अथ आर्यिकाः भक्ते शय्यातरकुले गत्वा स्वम् आत्मानम्
इव आख्याय पालनाय तं बालम् आर्पयन् ।
आर्यिकाः - साध्व्यः । समास :- (१) शय्यातरकुले - (A) शय्यया (वसत्या) तरतीति
शय्यातरः । (उप.त.पु.) (B) शय्यातरस्य कुलम् इति शय्यातरकुलम्,
तस्मिन् शय्यातरकुले । (ष.त.पु.) कुमारभृत्याकुशला , शय्यातर्योऽपि तं शिशुम् । स्वस्वपुत्राधिकं प्रीत्या', पश्यन्त्यः पर्यपालयन् ॥५६॥ अन्वय :- कुमारभृत्याकुशलाः प्रीत्या स्वस्वपुत्राधिकं पश्यन्त्यः
शय्यातर्यः अपि तं शिशुं पर्यपालयन् । समास :- (१) कुमारभृत्याकुशलाः – (A) कुमारस्य भृत्या इति
कुमारभृत्या । (ष.त.पु.) (B) कुमारभृत्यायां कुशलाः इति
___ कुमारभृत्याकुशलाः । (स.त.पु.) (२) स्वस्वपुत्राधिकम् - (A) स्वे च स्वे च इति स्वस्वे।
(विशे० उभ०क०) (B) स्वस्वेषां पुत्राः इति स्वस्वपुत्राः । (ष.त.पु.) (C) स्वस्वपुत्रेभ्यः अधिकः इति स्वस्वपुत्राधिकः,
तं स्वस्वपुत्राधिकम् । (पं. त. पु.) शय्यातरपुरन्ध्रीणाम् , स सौभाग्यनिधानभूः । अङ्कांदई सञ्चचार', हंसोऽम्बुजमिवाम्बुजात् ॥५७॥