________________
- ૯૨
समास :- (१) गुरुगुणान्वितः - (A) गुरवश्च इमे गुणाश्च इति
गुरुगुणाः । (वि.पू.क.)
(B) गुरुगुणैः अन्वितः इति गुरुगुणान्वितः । (तृ.त.पु.) (२) कुन्दकलिकामात्रः (A) कुन्दस्य कलिका इति
कुन्दकलिका । (ष.त.पु.) (B) कुन्दकलिका एव इति कुन्दकलिकामात्रः ।
____ (मयू.व्यं.कर्म.) आचार्यवर्या' जर्गदुर्भवेत्वेवं तपोधनाः!। किन्त्वसौं नींवमन्तव्यो, विद्यावृद्धोऽर्भकोऽपि हि ॥२००॥ अन्वय :- आचार्यवर्याः जगदुः तपोधनाः ! एवं भवतु किन्तु
" अर्भकः अपि हि विद्यावृद्धः असौ न अवमन्तव्यः । समास :- (१) आचार्यवर्याः - आचार्येषु वर्याः इति आचार्यवर्याः ।
(स.त.पु.) (२) तपोधनाः! - तपः धनम् येषां ते इति तपोधनाः,
तत्सम्बोधनं तपोधनाः! । (समा.ब.वी.)
(३) विद्यावृद्धः-विद्यया वृद्धः इति विद्यावृद्धः । (तृ.त.पु.) अगमाम वयं ग्राममाार्योऽयं च वोऽपितः। अत एवं यथा विथ , यूयमस्येदृशान् गुणान् ॥२०१॥ अन्वय :- यथा यूयम् अस्य ईदृशान् गुणान् वित्थ अत एव अयम्
आचार्यः वः अर्पितः वयं च ग्रामम् अगमाम । अन्यथा वाचनाचार्यपदवी' नायमर्हति । गुर्वदत्तं यतोऽनेन, कर्णश्रुयाँऽऽदर्दै श्रुतम् ॥२०२॥