________________
૯૧
वन्दित्वां पुनराचार्याशिष्यः सर्वे' व्यजिज्ञपन्ं । अस्माकं वाचनाचार्यो', वज्रोऽभूर्युष्मदाज्ञयाँ ॥१९७॥ अन्वय :- पुनः वन्दित्वा सर्वे शिष्याः आचार्यान् व्यजिज्ञपन् युष्मदाज्ञया वज्रः अस्माकं वाचनाचार्यः अभूत् ।
समास :- (१) वाचनाचार्य: - पूर्ववत् ।
(२) युष्मदाज्ञया - युष्माकम् आज्ञा इति युष्मदाज्ञा, तया युष्मदाज्ञया । (ष.त. पु.)
वज्र॑श्चिरमँवज्ञातॊऽस्माभि॑िरज्ञाततद्गुणैः
इदानीं भगवत्पादा, इवें बालोऽप्ययं हि नः ॥ १९८ ॥
अन्वय :- अज्ञाततद्गुणैः अस्माभिः वज्रः चिरम् अवज्ञातः इदानीम् बालः अपि अयं हि नः भगवत्पादा इव (भवतु ) । समास :- (१) अज्ञाततद्गुणैः - (A) तस्य गुणाः इति तद्गुणाः । (ष. त.पु.)
(B) न ज्ञाता: इति अज्ञाताः । (नञ्.त.पु.)
(C) अज्ञाताः तद्गुणाः यैः ते इति अज्ञाततद्गुणाः, तैः अज्ञाततद्गुणैः । (समा.ब.व्री.)
बालोऽप्यस्त्वषं गच्छस्यें, गुरु गुरु गुणान्विर्तः । प्रदीपैः कुन्दकलिकामात्रोऽप्युद्योतयेद् गृहम् ॥ १९९॥ अन्वय :- कुन्दकलिकामात्रः अपि प्रदीपः गृहम् उद्योतयेद् गुरुगुणान्वितः एष बालः अपि गच्छस्य गुरुः अस्तु ।