________________
अन्वय :- अन्यथा अयं वाचनाचार्यपदवीं न अर्हति यतः अनेन
गुर्वदत्तं श्रुतं कर्णश्रुत्या आददे । समास :- (१) वाचनाचार्यपदवीम् - (A) वाचनाचार्यः - पूर्ववत् ।
(B) वाचनाचार्यस्य पदवी इति वाचनाचार्यपदवी,
तां वाचनाचार्यपदवीम् । (ष.त.पु.) (२) गुर्वदत्तम् – (A) न दत्तम् इति अदत्तम् ।
(नञ्.त.पु.) (B) गुरुणा अदत्तम् इति गुर्वदत्तम्, तद् गुर्वदत्तम् ।
(तृ.त.पु.) (३) कर्णश्रुत्या - कर्णेन श्रुतिः इति कर्णश्रुतिः, तया
कर्णश्रुत्या । (तृ.त.पु.) सङ्क्षेपानुष्ठानरूपोत्सारकल्पोऽस्य संयताः!। कार्य आचार्यपदवीयोग्यो ह्येष ततो भवेत् ॥२०३॥ अन्वय :- संयताः ! अस्य सङ्क्षपानुष्ठानरूपोत्सारकल्पः कार्यः
. ततः हि एषः आचार्यपदवीयोग्यः भवेत् । समास :- (१) संक्षेपानुष्ठानरूपोत्सारकल्पः - (A) संक्षेपेण कृतम्
इति संक्षेपकृतम् । (तृ.त.पु.) (B) संक्षेपकृतम् अनुष्ठानम् इति संक्षेपानुष्ठानम् ।
(म.प.लो.क.) (C) संक्षेपानुष्ठानमेव इति संक्षेपानुष्ठानरूपः। (तद्धित) (D) संक्षेपानुष्ठानरूपः उत्सारः इति संक्षेपानुष्ठान
रूपोत्सारः । (वि.पू.क.) (E) संक्षेपानुष्ठानरूपोत्सारेण (कृतः) कल्पः इति
संक्षेपानुष्ठानरूपोत्सारकल्पः । (तृ.त.पु.)