________________
.८४ (२) आचार्यपदवीयोग्यः - (A) आचार्यस्य पदवी इति
आचार्यपदवी । (ष.त.पु.) (B) आचार्यपदव्याः योग्यः इति आचार्य
__पदवीयोग्यः । (ष.त.पु.) ततश्च प्रार्गपठितम् , श्रुतमर्थसमन्वितम् । शीघ्रमध्यापयामार्स , वजं गुरुरुंदारधीः ॥२०४॥ अन्वय :- ततः च उदारधीः गुरुः वज्रं प्राग् अपठितम् अर्थ
समन्वितं श्रुतं शीघ्रम् अध्यापयामास । समास :- (१) अपठितम् - न पठितम् इति अपठितम्, तद्
अपठितम् । (नञ्.त.पु.) (२) अर्थसमन्वितम् - अर्थेन समन्वितम् इति
अर्थसमन्वितम् । (तृ.त.पु.) (३) उदारधीः - उदारा धीः यस्य सः इति उदारधीः ।
___ (समा.ब.वी.) साक्षिमात्रीकृतगुरुर्वजों गुपितं श्रुतम् । प्रतिबिम्बैमिवादर्शः, सर्वं जग्राह लीलया ॥२०५॥ अन्वय :- आदर्शः प्रतिबिम्बम् इव साक्षिमात्रीकृतगुरुः वज्रः
गुपितं सर्वं श्रुतं लीलया जग्राह । समास :- (१) साक्षिमात्रीकृतगुरुः - (A) साक्षी एव इति
साक्षिमात्रः । (मयू.व्यं कर्म.) (B) न साक्षिमात्रः इति असाक्षिमात्रः। (नञ्.त.पु.) (C) असाक्षिमात्रः साक्षिमात्रः कृतः इति
साक्षिमात्रीकृतः । (गति.त.पु.)