________________
(D) साक्षिमात्रीकृतः गुरुः येन सः इति
__साक्षिमात्रीकृतगुरुः । (समा.ब.वी.) (२) गुर्वर्पितम् - गुरुणा अर्पितम् इति गुर्वर्पितम्, तद्
गुर्वर्पितम् । (तृ.त.पु.) श्रुतज्ञोऽभूतथा वज्रों , या तस्य॑ गुरोरपि ।
दुर्भेदचिरसन्देहलोष्ठमुद्गरतां ययौं ॥२०६॥ अन्वय :- वज्रः तथा श्रुतज्ञः अभूत् यथा तस्य गुरोः अपि
दुर्भेदचिरसन्देहलोष्ठमुद्गरतां ययौ । समास :- (१) श्रुतज्ञः - श्रुतं जानाति इति श्रुतज्ञः । (उप.त.पु.)
(२) दुर्भेदचिरसन्देहलोष्ठमुद्गरताम् – (A) दुःखेन भिद्यन्ते
इति दुर्भेदाः । (उप.त.पु.) (B) चिरेण स्थिताः इति चिरस्थिताः । (प्रादि.कर्म.) (C) चिरस्थिताः सन्देहाः इति चिरसन्देहाः ।
(म.प.लो.क.) (D) दुर्भेदाश्चामी चिरसन्देहाश्च इति
दुर्भेदचिरसन्देहाः । (वि.पू.क.) (E) दुर्भेदचिरसन्देहा एव लोष्ठानि इति दुर्भेदचिर
सन्देहलोष्ठानि । (अव.पू.क.) (F) दुर्भेदचिरसन्देहलोष्ठानि भिनत्ति इति
दुर्भेदचिरसन्देहलोष्ठभेदकः । (उप.त.पु.) (G) दुर्भेदचिरसन्देहलोष्ठभेदकः मुद्गरः इति दुर्भेद
चिरसन्देहलोष्ठमुद्गरः । (म.प.लो.क.) (H) दुर्भेदचिरसन्देहलोष्ठमुद्गरस्य भावः इति दुर्भेद