________________
चिरसन्देहलोष्ठमुद्गरता, तां दुर्भेदचिरसन्देहलोष्ठ
मुद्गरताम् । (तद्धित) दृष्टिवादोऽपि हृदये यावन्मात्रोऽभवद् गुरोः । तावानुपाद वज्रेणाम्भश्शुलुकलीलयां ॥२०७॥ अन्वय :- गुरोः हृदये दृष्टिवादः अपि यावन्मात्रः अभवत् तावान् वज्रेण
__अम्भश्चुलुकलीलया उपाददे । समास :- (१) यावन्मात्र: - यावान् एव इति यावन्मात्रः। (म.व्यं.क.)
(२) अम्भश्चुलुकलीलया - (A) अम्भसा पूर्णः
अम्भःपूर्णः । (तृ.त.पु.) (B) अम्भःपूर्णः चुलुकः इति अम्भश्चुलुकः ।
(म.प.लो.क.) (C) अम्भश्चुलुकस्य लीला इति अम्भश्चुलुकलीला,
___ तया अम्भश्चुलुकलीलया। (ष.त.पु.) अन्यदा विहरन्तस्ते, ग्रामाद ग्राम पुरात्पुरम् । पुरं" दशपुरं जग्मुराचार्याः सपरिच्छदाः ॥२०८॥ अन्वय :- अन्यदा ग्रामाद् ग्रामम् पुरात् पुरम् विहरन्तः सपरिच्छदाः ते
आचार्याः दशपुरं पुरं जग्मुः । समास :- (१) सपरिच्छदाः - परिच्छदेन सह वर्तन्ते ये ते इति
सपरिच्छदाः । (सह.ब.वी.) तदा चौज्जयनीपुर्याम्' सम्पूर्णदशपूर्वभृत् । आचार्योऽस्ति तदैतस्मादादेयों दशपूर्व्यर्पि ॥२०९॥