________________
. १५६ समास :- (१) वज्रस्वामिनम् - पूर्ववत् ।
(२) व्योमयायिनम् - व्योम्नि याति इत्येवंशीलः इति ___ व्योमयायी, तं व्योमयायिनम् । (उप.त.पु.) (३) मूर्धजान् - मूनि जाताः इति मूर्धजाः, तान् मूर्धजान् ।
(उप.त.पु.) शय्यातरोऽहं युष्माकमभवं भगवन् ! पुरा । अद्यं साधर्मिकोऽप्यस्मि, निस्तारयसि कि न माम् ? ॥३२६॥ अन्वय :- भगवन् ! पुरा अहं युष्माकं शय्यातरः अभवम् अद्य
सार्मिकः अपि अस्मि मां किं न निस्तारयसि ? । समास :- (१) शय्यातरः - पूर्ववत् ।
(२) सार्मिकः - (A) समानः धर्मः यस्य सः इति
सधर्मा । (समा.ब.वी.) (B) सधर्माणः अयम् (संबन्धः) इति साधर्मिकः ।
__ (तद्धित) शय्यार्तरस्य ती वाचम्, श्रुत्वोपालम्भगर्भिताम् । दृष्ट्वा च लूनकेशं तम्, वज्रः सूत्रार्थमस्मरत् ॥३२७॥ अन्वय :- शय्यातरस्य उपालम्भगर्भितां तां वाचं श्रुत्वा लूनकेशं
च तं दृष्ट्वा वज्रः सूत्रार्थम् अस्मरत् । समास :- (१) शय्यातरस्य - पूर्ववत् ।।
(२) उपालम्भगर्भिताम् - उपालम्भेन गर्भिता इति
उपालम्भगर्भिता, ताम् उपालम्भगर्भिताम् । (तृ.त.पु.)
९