________________
૧૦૯ (B) अधीतं दशपूर्वं येन सः इति अधीतदशपूर्वः ।
___(समा.ब.वी.) (२) गृहीताम्बुः- गृहीतम् अम्बु येन सः इति गृहीताम्बुः।
(समा.ब.वी.)
(३) अम्बुदः - अम्बु ददाति इति अम्बुदः । (उप.त.पु.) दशपूर्वार्णवागस्तैर्वज्रस्योभ्यागतस्य तु । पूर्वानुज्ञां कृता सिंहगिरिणां गुरु णां तदा ॥२३६॥ अन्वय :- अभ्यागतस्य दशपूर्वार्णवागस्तेः वज्रस्य तु तदा सिंह
गिरिणा गुरुणा पूर्वानुज्ञा कृता। समास :- (१) दशपूर्वार्णवागस्तेः - (A) दशपूर्वम् - पूर्ववत् ।
(B) दशपूर्वम् एव अर्णवः इति दशपूर्वार्णवः ।
(अव.पू.क.) (C) दशपूर्वार्णवं पिबति इति दशपूर्वार्णव
पायकः । (उप.त.पु.) (D) दशपूर्वार्णवपायकः अगस्तिः, इति दशपूर्वार्ण
वागस्तिः, तस्य दशपूर्वार्णवागस्तेः ।
(म.प.लो. क.) (२) पूर्वानुज्ञा - पूर्वाणाम् अनुज्ञा पूर्वानुज्ञा । (ष.त.पु.) वज्रस्य पूर्वानुज्ञायाम्, विदधैं जृम्भकामरैः।
महिमा दिव्यकुसुमप्रकरादिभिरद्भुतः ॥२३७॥ अन्वय :- वज्रस्य पूर्वानुज्ञायां जृम्भकामरैः दिव्यकुसुमप्रकरादिभिः
अद्भुतः महिमा विदधे।