________________
૧૪૩ (B) निर्वाणार्पणस्य लग्निका इति निर्वाणार्पणलग्निका,
तां निर्वाणार्पणलग्निकाम् । (ष.त.पु.) बिभीतकतरुच्छायामिवानर्थप्रदायिनीम् । माँ कोर्षीद्विषयासक्तिम्, त्वत्पुत्री वच्मि तद्धितम् ॥३०४॥ अन्वय :- तद्धितं वच्मि (यद्) त्वत्पुत्री बिभीतकतरुच्छायाम् इव
अनर्थप्रदायिनी विषयासक्तिं मा कार्षीत् । समास :- (१) बिभीतकतरुच्छायाम् - (A) बिभीतकः नाम यस्य
सः इति बिभीतकनामा। (समा.ब.वी.) (B) बिभीतकनामा चासौ तरुश्च इति बिभीतकतरुः।
(म.प.लो.क.) (C) बिभीतकतरोः छाया इति बिभीतकतरुच्छाया,
तां बिभीतकतरुच्छायाम् । (ष.त.पु.) (२) अनर्थप्रदायिनीम् - (A) न अर्थः इति अनर्थः ।
(नब्.त.पु.) (B) अनर्थं प्रददाति इत्येवंशीला अनर्थप्रदायिनी,
ताम् अनर्थप्रदायिनीम् । (उप.त.पु.) (३) विषयासक्तिम् - विषयाणाम् आसक्तिः इति
विषयासक्तिः, तां विषयासक्तिम् । (ष.त.पु.) (४) त्वत्पुत्री - तव पुत्री इति त्वत्पुत्री । (ष.त.पु.) (५) तद्धितम् - तस्यै हितम् इति तद्धितम्, तद् तद्धितम् ।
(च.त.पु.)