________________
૧૪૨
इयेषं मामेवं यदि, कुलीनो मनसाऽप्यसौ । तदेवं युज्यतें कर्तुं, परलोकहितेच्छया ॥३०२॥ अन्वय :- यदि कुलीना असौ मनसा अपि माम् एव इयेष तद्
परलोकहितेच्छया एवं कर्तुं युज्यते। समास :- (१) कुलीना - कुले भवा इति कुलीना । (तद्धित)
(२) परलोकहितेच्छया - (A) परश्चासौ लोकश्च इति
परलोकः । (वि.पू.क.) (B) परलोकाय हितम् इति परलोकहितम् ।
(च.त.पु.) (C) परलोकहितस्य इच्छा इति परलोकहितेच्छा,
तया परलोकहितेच्छया । (ष.त.पु.) विवेकपूर्वमथवाऽनुज्ञयाँऽपि मदीययो । गृह्णात्वेषां परिव्रज्याम्, निर्वाणार्पणलग्निकाम् ॥३०३॥ अन्वय :- विवेकपूर्वम् अथवा मदीयया अनुज्ञया अपि एषा
निर्वाणार्पणलग्निकां परिव्रज्यां गृह्णातु । समास :- (१) विवेकपूर्वम्-विवेकेन पूर्वम् इति विवेकपूर्वम् ।
(तृ.त.पु.) (२) मदीयया - मम इयम् इति मदीया, तया मदीयया।
(तद्धित) (३) निर्वाणार्पणलग्निकाम् - (A) निर्वाणस्य अर्पणम् इति
निर्वाणार्पणम् । (ष.त.पु.)