________________
૧૪૧ (३) शरीरिणाम्-शरीरमस्ति येषाम् इति शरीरिणः, तेषां
शरीरिणाम् । (तद्धित) ज्ञात्वा दुरन्तान् विषर्यान्, कथमङ्गीकरोम्यमूम् । ज्ञातैश्चौरैरसारोपि, ग्रहीतुं ने ही शक्यते ॥३००॥ अन्वय :- विषयान् दुरन्तान् ज्ञात्वा अमूं कथम् अङ्गीकरोमि ही
ज्ञातैः चौरैः असारः अपि ग्रहीतुं न शक्यते । समास :- (१) दुरन्तान् - दुष्टः अन्तः येषां ते इति दुरन्ताः, तान्
दुरन्तान् । (प्रादि.ब.वी.) (२) अङ्गीकरोमि - (A) न अङ्गम् इति अनङ्गम् ।
(नञ्.त.पु.) (B) अनङ्गम् अङ्गम् इव करोमि इति अङ्गीकरोमि ।
__(गति.त.पु.) (३) असारः - नास्ति सारं यस्मिन् सः इति असारः ।
(नञ्.ब.वी.) महानुभावं ! कन्या ते, यदि मय्येनुरागिणी । प्रव्रज्यां तन्मयोपात्तामुपादामीवर्पि ॥३०१॥ अन्वय :- महानुभाव ! यदि ते कन्या मयि अनुरागिणी तद् मया
उपात्तां प्रव्रज्याम् असौ अपि उपादत्ताम् । समास :- (१) महानुभाव! - महान् अनुभावः यस्यसः इति
महानुभावः, तत्सम्बोधनं महानुभाव ! (समा.ब.वी.) (२) अनुरागिणी - अनुरागः अस्ति अस्या इति
अनुरागिणी। (तद्धित)