SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४० (३) द्रव्यकोटीभिः - द्रव्यकोट्यः-पूर्ववत्, ताभिः द्रव्यकोटीभिः । नितम्बिन्यो हि विषयास्ते पुर्नः स्युर्विषोपाः । आपातमात्रमधुराः, परिणामेऽतिदारूंणाः ॥२९८॥ अन्वय :- पुनः नितम्बिन्यः ते विषयाः हि विषोपमाः आपातमात्र मधुराः परिणामे अतिदारुणाः स्युः । समास :- (१) विषोपमा:-विषस्य उपमा येषां ते इति विषोपमाः । (व्यधि.ब.वी.) .. (२) आपातमात्रमधुराः - (A) आपातम् एव इति आपात मात्रम् । (मयू.कर्म.) (B) आपातमात्रे मधुराः इति आपातमात्रमधुराः । __ (स.त.पु.) (३) अतिदारुणाः - अतिशयेन दारुणाः इति __ अतिदारुणाः । (प्रा.क.) विवेच्यमाना विषया, विशिष्यन्ते विषादपि । जन्मान्तरेऽप्यनर्थाय , ये भवन्ति शरीरिणाम ॥२९९॥ अन्वय :- विवेच्यमानाः विषयाः विषाद् अपि विशिष्यन्ते ये जन्मान्तरे अपि शरीरिणाम् अनर्थाय भवन्ति । समास :- (१) जन्मान्तरे - अन्यद् जन्म इति जन्मान्तरम्, तस्मिन् जन्मान्तरे । (मयू.कर्म.) (२) अनर्थाय - न अर्थः इति अनर्थः, तस्मै अनर्थाय । (नञ्.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy