________________
૧૩૯ विवाहानन्तरं वजं !, हस्तमोचनपर्वणि । द्रव्यकोटीरसङ्ख्यातास्तुभ्यं दास्य भवेत्वदः ॥२९६॥ अन्वय :- वज्र ! विवाहानन्तरं हस्तमोचनपर्वणि असङ्ख्याताः
द्रव्यकोटी: तुभ्यं दास्ये अदः भवतु । समास :- (१) विवाहानन्तरम् - (A) नास्ति अन्तरं यस्मिन् तद्
इति अनन्तरम् । (नञ्.ब.वी.) (B) विवाहाद् अनन्तरम् इति विवाहानन्तरम् ।
(पं.त.पु.) (२) हस्तमोचनपर्वणि - (A) हस्तस्य मोचनम् इति
हस्तमोचनम् । (ष.त.पु.) (B) हस्तमोचनस्य पर्व इति हस्तमोचनपर्व, तस्मिन्
हस्तमोचनपर्वणि । (ष.त.पु.) (३) द्रव्यकोटी: - द्रव्याणां कोट्यः इति द्रव्यकोट्यः,
ताः द्रव्यकोटीः । (ष.त.पु.) वर्जस्तमज्ञं विज्ञार्य, स्मित्वोचें करुणापरः । पर्याप्तं द्रव्यकोटीभिः, पर्याप्तं कन्ययों च ते ॥२९७॥ अन्वय :- करुणापरः वज्रः तम् अज्ञं विज्ञाय स्मित्वा ऊचे ते
द्रव्यकोटीभिः पर्याप्तं कन्यया च पर्याप्तम् । समास :- (१) अज्ञम् - न जानाति इति अज्ञः, तम् अज्ञम् ।
(उप.त.पु.) (२) करुणापरः - करुणायां परः इति करुणापरः ।
(स.त.पु.)
10