SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ૧૩૮ देशनान्तेंवदद्वजम्, धनश्रेष्ठी कृताञ्जलिः । कृत्वा प्रसाद मत्पुत्रीमिमांमुबह मानदै! ॥२९४॥ अन्वय :- देशनान्ते कृताञ्जलिः धनश्रेष्ठी वज्रम् अवदत् मानद ! प्रसादं कृत्वा इमां मत्पुत्रीम् उद्वह। समास :- (१) देशनान्ते - पूर्ववत् । (२) धनश्रेष्ठी-पूर्ववत् । (३) कृताञ्जलिः - कृतः अञ्जलिः येन सः इति कृताञ्जलिः । (समा.ब.वी.) (४) मत्पुत्रीम् - मम पुत्री इति मत्पुत्री, तां मत्पुत्रीम् । (ष.त.पु.) (५) मानद ! - मानं ददाति इति मानदः, तत्संबोधनं मानद ! । (उप.त.पु.) क्वं भवानमराकारः, क्वेयं मानुषकोटिका । ऊरीकु तथाप्येनाम्, महत्तुं न वृथाऽर्थनीं ॥२९५॥ अन्वय :- अमराकारः भवान् क्व मानुषकीटिका इयं का तथा अपि एनाम् ऊरीकुरु महत्सु अर्थना वृथा न (भवति)। समास :- (१) अमराकारः - अमरस्य आकारः इव आकारः यस्य सः इति अमराकारः । (उप.ब.वी.) (२) मानुषकीटिका - मानुषेषु कीटिका इव इति मानुषकीटिका । (स.त.पु.) (३) ऊरीकुरु - (A) न ऊरी इति अनूरी । (नञ्.त.पु.) (B) अनूरी ऊरी कुरु इति ऊरीकुरु । (गति.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy