________________
एवं भगवतो वज्रस्वामिनः पेशलोक्तिभिः । प्रतिबुद्धा प्रवव्राजाल्पकर्मा रुक्मिणी तदा ॥३०५॥ अन्वय :- एवं भगवतः वज्रस्वामिनः पेशलोक्तिभिः प्रतिबुद्धा
अल्पकर्मा रुक्मिणी तदा प्रवव्राज । समास :- (१) भगवतः - भगवान् - पूर्ववत्, तस्य भगवतः ।
(२) वज्रस्वामिनः - पूर्ववत् । (३) पेशलोक्तिभिः - पेशलाश्च ताः उक्तयश्च इति
पेशलोक्तयः, ताभिः पेशलोक्तिभिः । (वि.पू.क.) (४) अल्पकर्मा - अल्पानि कर्माणि यस्याः सा इति
अल्पकर्मा । (समा.ब.वी.) धर्मोऽयमेवं हि श्रेयान्, यत्र निर्लोभंतेदृशीं । एवं विमृश्य बहवः, प्रतिबोधं जनी ययुः ॥३०६॥ अन्वय :- हि अयं धर्मः एव श्रेयान् यत्र ईदृशी निर्लोभता एवं
विमृश्य बहवः जनाः प्रतिबोधं ययुः । समास :- (१) ईदृशी - इयम् इव दृश्यते इति ईदृशी। (उप.त.पु.)
(२) निर्लोभता - (A) निर्गतः लोभः यस्मात्सः इति
निर्लोभः । (प्रादि.ब.वी.)
(B) निर्लोभस्य भावः इति निर्लोभता । (तद्धित) अन्यदा जन्मसंसिद्धपदानुसृतिलब्धिना । ततो भगवता वज्रस्वामिनाऽऽकाशगामिनी ॥३०७॥
१३