________________
૧૦૭ (D) मुखस्थाप्या वस्त्रिका इति मुखवस्त्रिका ।
(म.प.लो.क.) (E) वदनद्वारविन्यस्ता मुखवस्त्रिका येन सः इति
वदनद्वारविन्यस्तमुखवस्त्रिकः । (समा.ब.वी.) यद्यत्सुखविहारादि, पूज्यपादैरपृच्छ्यते । तत्तत्तथैवे देवानाम, गुरूणां च प्रसादतः ॥२३१॥ अन्वय :- पूज्यपादैः यद् यद् सुखविहारादि अपृच्छयत तद् तद्
देवानां गुरूणां च प्रसादतः तथैव (अस्ति)। समास :- (१) पूज्यपादैः - पूज्ये पादे येषां ते इति पूज्यपादाः, तैः
पूज्यपादैः । (समा.ब.वी.) (२) सुखविहारादि - (A) सुखविहारः पूर्ववत् । (B) सुखविहारः आदौ यस्मिन् तद् इति सुख
विहारादि । (व्यधि.ब.वी.) अध्येतुं दर्श पूर्वाणि, त्वामागां गुर्वनुज्ञया । तद्वाचनाप्रदानेन , प्रसीदें भगवन्मयिं ॥२३२॥ अन्वय :- गुर्वनुज्ञया दश पूर्वाणि अध्येतुं त्वाम् आगां भगवन् !
तद्वाचनाप्रदानेन मयि प्रसीद । समास :- (१) गुर्वनुज्ञया - गुरोः अनुज्ञा इति गुर्वनुज्ञा, तया गुर्वनुज्ञया
। (ष.त.पु.) (२) तद्वाचनाप्रदानेन - (A) तेषां वाचनाः इति
तद्वाचनाः । (ष.त.पु.)