________________
૧૦૬ अन्वय :- वज्रर्षे ! किं किंचित् कार्यम् उद्दिश्य अथवा विहारक्रमतः
इह आगतः असि कथय अस्मान् प्रमोदय । समास :- (१) विहारक्रमतः - विहारस्य क्रमः इति विहारक्रमः,
तस्मात् विहारक्रमतः । (ष.त.पु.) (२) वज्रर्षे ! - (A) वज्रः नाम यस्य सः इति वज्रनामा।
(समा.ब.वी.) (B) वज्रनामा ऋषिः इति वर्षिः, तत्सम्बोधनं -
वज्रर्षे ! । (म.प.लो.क.) वन्दित्वा भद्रगुप्तर्षिम, वज्रों विरचिताञ्जलिः। उवाच वदनद्वारविन्यस्तमुखवस्त्रिकः ॥२३०॥ अन्वय :- भद्रगुप्तर्षि वन्दित्वा वदनद्वारविन्यस्तमुखवस्त्रिकः
विरचिताञ्जलिः वज्रः उवाच । समास :- (१) भद्रगुप्तर्षिम् - (A) भद्रगुप्तः नाम यस्य सः इति
भद्रगुप्तनामा । (समा.ब.वी.) (B) भद्रगुप्तनामा ऋषिः इति भद्रगुप्तर्षिः, तं
भद्रगुप्तर्षिम् । (म.प.लो.क.) (२) विरचिताञ्जलिः - विरचितः अञ्जलि: येन सः
इति विरचिताञ्जलिः । (समा.ब.वी.) (३) वदनद्वारविन्यस्तमुखवस्त्रिकः -
(A) वदनस्य द्वारम् इति वदनद्वारम् । (ष.त.पु.) (B) वदनद्वारे विन्यस्ता इति वदनद्वारविन्यस्ता ।
(स.त.पु.) (C) मुखे स्थाप्या इति मुखस्थाप्या । (स.त.पु.)