________________
(२) अधितद्वदनाम्भोजम् - (A) तस्य वदनम् इति तद्वदनम् । (ष. त.पु.)
(B) अम्भसि जातम् इति अम्भोजम् । (उप. त.पु.) (C) तद्वदनम् एव अम्भोजम् इति तद्वदनाम्भोजम् । (अव.पू.क.)
(D) तद्वदनाम्भोजे इति अधितद्वदनाम्भोजम् । (अव्य.भा.)
૧૦૫
-
(३) स्वनेत्रे स्वस्य नेत्रे इति स्वनेत्रे ते स्वनेत्रे ।
(ष. त.पु.)
कर्च्चित्सुखविहारस्तें, कच्चित्तेऽडुर्मनामयम् कच्चित्तपस्ते निर्विघ्नम्, कच्चित्ते कुशली गुरु: ॥२२८॥ अन्वय :- कच्चित् ते सुखविहारः कच्चित् ते अङ्गम् अनामयं कच्चित् ते तपः निर्विघ्नं कच्चित् ते गुरुः कुशली । कच्चित् - प्रश्नार्थकोऽव्ययः । " कच्चिदिष्टपरिप्रश्ने" ॥ १५८॥ इत्यभिधाने ।
समास :- (१) सुखविहार : - सुखेन (कृत:) विहार : इति सुखविहार: । (तृ.त.पु.)
(२) अनामयम् नास्ति आमयः यस्मिन् तद् इति अनामयम् । (नञ्.ब.व्री.)
(३) निर्विघ्नम् - निर्गताः विघ्नाः यस्मात् तद् इति निर्विघ्नम् । (प्रादि ब.व्री.)
-
(४) कुशली - कुशलमस्ति यस्य इति कुशली । (तद्धित) किं किंचित्कार्यमुद्दिश्ये, विहारक्रमतोऽथवा । इहागतोऽसि वज्रर्षे!, कथयस्मान्प्रमोद ॥२२९॥