________________
प्रार
૧૦૪ प्रसिद्धिसदृशीं वज्रस्यांकृति परिभायं च । वज्रोऽयमिति निश्चिक्ये', भद्रगुप्तों महामुनिः ॥२२५॥ अन्वय :- भद्रगुप्तः महामुनिः प्रसिद्धिसदृशीं वज्रस्य आकृतिं परिभाव्य
अयं च वज्रः इति निश्चिक्ये । समास :- (१) प्रसिद्धिसदृशीम् - प्रसिद्ध्या सदृशी इति प्रसिद्धि
सदृशी, तां प्रसिद्धिसदृशीम् । (तृ.त.पु.)
(२) महामुनि:-पूर्ववत्। वन्दनाभिमुखं वज्रम् , भद्रगुप्तोऽर्थ सस्वर्जे । बलीयसी खैलूत्कण्ठा, विनयं ने प्रतीक्षते ॥२२६॥ अन्वय :- अथ भद्रगुप्तः वन्दनाभिमुखं वजं सस्वजे खलु बलीयसी
उत्कण्ठा विनयं न प्रतीक्षते । समास :- (१) वन्दनाभिमुखम् - (A) अभिप्रपन्नः मुखम् इति
अभिमुखः । (त.पु.) (B) वन्दनस्य अभिमुखः इति वन्दनाभिमुखः, तं
वन्दनाभिमुखम् । (ष.त.पु.) आरोंप्या भद्रगुप्ताचार्यो वज्रमभाषतं । अधितद्वदनाम्भोजम्', स्वनेत्रे भृङ्गतां नयन् ॥२२७॥ अन्वय :- अधितद्वदनाम्भोजं स्वनेत्रे भृङ्गतां नयन् भद्रगुप्ताचार्यो वज्रम्
अङ्के आरोप्य अभाषत । समास :- (१) भद्रगुप्ताचार्यः - पूर्ववत् ।