________________
स तु बोलोऽपिं संज्ञांवाञ्ज्ञानावरणलाघवात् । तासांमाकर्णयमास, तं संलीपं समाहितैः ॥२५॥ अन्वय :- ज्ञानावरणलाघवात् संज्ञावान् समाहितः तु बालः अपि सः तासां तं संलापम् आकर्णयामास ।
समाहित: - दत्तचित्तीभूतः ।
“समाहितः समाधिस्थे संश्रुते" इत्यनेकार्थः । (४।१२९) (१) संज्ञावान् - संज्ञा अस्ति यस्य इति संज्ञावान् । (तद्धित) मतुप्रत्ययः ।
-
(२) ज्ञानावरणलाघवात् – (A) ज्ञानम् आवृणोति इति ज्ञानावरणम् । (उप. त. पु.)
(B) ज्ञानावरणस्य लाघवम् इति ज्ञानावरणलाघवम्, तस्मात् ज्ञानावरणलाघवात् । (ष. त. पु.)
अचिन्तर्यच्च मत्तातः, परिव्रज्यामुपाददे । एवं' च' चिन्तयन्नैव, जातिस्मरणमपि सः ॥२६॥ अन्वय :- अचिन्तयत् च मत्तातः परिव्रज्याम् उपाददे एवं च चिन्तयन् एव सः जातिस्मरणम् आप ।
समास :
૧૩
-
समास :- (१) मत्तात: मम तातः इति मत्तातः । (ष.त.पु.) (२) जातिस्मरणम् - जातिः स्मर्यतेऽनेनेति
जातिस्मरणम्, तद् जातिस्मरणम् । (उप. त. पु.) करणाऽऽधारे ५।३।१२९. अनट् प्रत्ययः
र्स जातजातिस्मरण, संसारासारतां विदन् । इयेषं क्षीरकण्ठोऽपि पित्र्येऽध्वन्यध्वनीनंताम् ॥२७॥