________________
૧૬૭ (२) द्रव्यवन्तः - द्रव्यम् अस्ति येषां ते इति द्रव्यवन्तः ।
(तद्धित) (३) राजाज्ञाम् - राज्ञः आज्ञा इति राजाज्ञा, तां राजाज्ञाम् ।
(ष.त.पु.) तुलसीबर्बरीपूजापात्रतां ग्रामयक्षवत् । प्रयान्ति जिनबिम्बानि, हहाँ किं जीवितेन॑ नः ॥३४६॥ अन्वय :- ग्रामयक्षवत् जिनबिम्बानि तुलसीबर्बरीपूजापात्रतां प्रयान्ति
हहा नः जीवितेन किम्।
बर्बरी - बावल इति भाषायाम्। समास :- (१) तुलसीबर्बरीपूजापात्रताम् -
(A) तुलसी च बर्बरी च इति तुलसीबर्बौं (इ.द्व.) (B) तुलसीबर्बरीभ्यां (कृता) पूजा इति तुलसी
बर्बरीपूजा । (तृ.त.पु.) (C) तुलसीबर्बरीपूजायाः पात्रम् इति तुलसीबर्बरी
पूजापात्रम् । (ष.त.पु.) (D) तुलसीबर्बरीपूजापात्रस्य भावः इति तुलसी
बर्बरीपूजापात्रता, तां तुलसीबर्बरीपूजापात्रताम् ।
(तद्धित) (२) ग्रामयक्षवत् - (A) ग्रामं रक्षतीति ग्रामरक्षकः ।
(उप.त.पु.) (B) ग्रामरक्षक: यक्षः इति ग्रामयक्षः ।
(म.प.लो.क.) (C) ग्रामयक्षः इव इति ग्रामयक्षवत् । (तद्धित)