________________
૧૬૬
समास :- (१) अर्हच्चैत्येषु - अर्हतः चैत्यानि इति अर्हच्चैत्यानि, तेषु अर्हच्चैत्येषु । (ष.त.पु.)
(२) अहरहः अह्नि, अह्नि इति अहरहः । (अव्य.भा.) (३) पूजादि - पूजा आदौ यस्मिन् तद् इति पूजादि, तद् पूजादि । (व्यधि.ब.वी.)
(४) अक्षमैः
-
न क्षमाः इति अक्षमाः, तैः अक्षमैः ।
(नञ्.त.पु.)
(५) दुरात्मभि: - दुष्ट: आत्मा येषां ते इति दुरात्मानः, तैः दुरात्मभि: । (प्रादि.. व्री.)
विज्ञप्तों बौद्धलोकेर्न, बौद्धों राजा न्यवारयत् । पुष्पाणिं ददतोऽस्माकम्, मालिकार्नखिलानपिं ॥ ३४४॥ अन्वय :- बौद्धलोकेन विज्ञप्तः बौद्धः राजा अस्माकं पुष्पाणि ददतः अखिलान् अपि मालिकान् न्यवारयत् ।
I
समास :- (१) बौद्धलोकेन बौद्धश्चासौ लोकञ्च इति बौद्धलोकः, तेन बौद्धलोकेन । (वि.पू.क.) लभामहें वयं नाथं । नाँगस्तिकुसुमान्ये किं कुर्मो द्रव्यवन्तोऽपिं, राजाज्ञां को तिलङ्घते ॥ ३४५॥ अन्वय :- नाथ ! द्रव्यवन्तः अपि वयम् अगस्तिकुसुमानि अपि न लभामहे किं कुर्मः कः राजाज्ञाम् अतिलङ्घते ।
।
अगस्तिः - वृक्षविशेष: । 'अगथिया' इति भाषायाम् ।
समास :- (१) अगस्तिकुसुमानि - अगस्ते: कुसुमानि इति अगस्तिकुसुमानि तानि अगस्तिकुसुमानि ।
(ष. त.पु.)